Krishna · When you are hoping for a child
सन्तानगोपालमन्त्रम्
Original: Sanskrit in Devanagari · Full stored text available offline
मराठी, हिंदी आणि इंग्रजी अर्थ हे अभ्यासासाठी आहेत; मूळ पाठ फक्त मूळ पाठ टॅबमध्ये आहे. Available meanings vary by hymn and verse.
The Santana Gopala mantra, देवकीसुत गोविन्द, and the Harivamsha stotra recited with it.
157 verses across 2 sections. The mantra follows https://sanskritdocuments.org/doc_vishhnu/santAnagopAlakRRiShNamantram.html. The stotra follows https://sanskritdocuments.org/doc_vishhnu/santaanagopaala.html. IAST is a transliteration.
23 in this section
Browser voice reading the Devanagari. Pronunciation follows the installed voice.
श्रीसन्तानगोपालकृष्णमन्त्रम्
Ask about this section
Santana Gopala · Santana Gopala mantra
Names the people and the event in this section, then says what the page does not include. It will not invent missing verses.
01
सन्तानगोपालः - नीलवर्णः पिबन्तं च स्तनं मातुः मुखं संवीक्ष्य सुस्मितम् । अङ्गुल्यग्रे स्तनं चान्यं स्पृशन्तं च मुहुर्मुहुः ॥
02
यशोदाङ्गस्थितं गोपं ध्यायेत्पुत्रप्रदं सदा ॥
03
श्रीसन्तानगोपालमन्त्रजपं करिष्ये - इति सङ्कल्प्य -)
04
ॐ पूर्णज्ञानात्मने हृदयाय नमः ।
05
ॐ पूर्णैश्वर्यात्मने शिरसे स्वाहा ।
06
ॐ पूर्णपरमात्मने शिखायै वषट् ।
07
ॐ पूर्णानन्दात्मने कवचाय हुं ।
08
ॐ पूर्णतेजात्मने नेत्राभ्यां वौषट् ।
09
ॐ पूर्णशक्त्यात्मने अस्त्राय फट् ।
10
इति दिग्बन्धः
11
अस्य श्रीद्वात्रिंशदक्षर सन्तानगोपालकृष्णमहामन्त्रस्य
12
नारद ऋषिः
13
अनुष्टुप् छन्दः
14
श्रीसन्तानगोपालकृष्णो देवता
15
कं बीजं - स्वाहा शक्तिः - श्रीसन्तानगोपालकृष्णप्रीत्यर्थे जपे विनियोगः ।
16
ध्यानम्
17
शङ्खचक्रधरं कृष्णं रथस्थं च चतुर्भुजम् ।
18
सर्वाभरणसंयुक्तं पीतवाससमच्युतम् ॥
19
द्विजवर्यार्जुनयुतं विष्णुतेजोपबृम्हितम् । समर्पयन्तं विप्राय नष्टानानीय बालकान् ॥
20
करुणामृतसम्पूर्णदृष्ट्यैक्षन्तं च तं द्विजम् ।
21
ध्यात्वा जपार्चनादीनि कुर्याद्भक्तिपरायणः । पुत्रार्थी स्वस्तिके न्यस्य तत्रस्थं कृष्णं पूजयेत् ॥
22
मूलमन्त्रः देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥
23
॥ एकलक्षं जपेन्मन्त्रं सिद्धिर्भवति तत्क्षणात् ॥